|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.292. अध्यायः 292
Mahabharata - Vana Parva - Chapter Topics
रावणवधानन्तरमविन्ध्यनाम्ना राक्षसवृद्धेन रामसमीपंप्रति सीताया आनयनम् ॥ 1 ॥ सूतया स्वशीलशङ्किनो रामस्यानङ्गीकारवचनश्रवणेन बूमौ पतनम् ॥ 2 ॥ अन्तरिक्षगतैर्ब्रह्मादिभिः सीतायाः सौशील्यख्यापनपूर्वकं रामंप्रति तद्ग्रहणचोदना ॥ 3 ॥ रामेण सीतालक्ष्मणादिभिः सहायोध्यांप्रति प्रस्थानम् ॥ 4 ॥ दूत्येन भरतंप्रति हनुमत्प्रेषणपूर्वकं नन्दिग्राममागतेन रामेण भरताधिभिः सहायोध्यांप्रत्यागमनम् ॥ 5 ॥ वसिष्ठादिभिः सीतया सह राज्येऽभिपिक्तेन रामेण सुग्रीवविभीषणादीनां सबहुमानं स्वस्वपुरप्रेषणपूर्वकं प्रजापालनम् ॥ 6 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-292-0x(2718)(27153)
स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम्।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥ 3-292-1(27154)
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥ 3-292-2(27155)
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥ 3-292-3(27156)
पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम्।
तन्महोत्सवसंकाशमासीदाकाशमच्युत ॥ 3-292-4(27157)
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः।
विभीषणाय प्रददौ प्रभुः परपुरंजयः ॥ 3-292-5(27158)
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥ 3-292-6(27159)
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्।
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥ 3-292-7(27160)
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ 3-292-8(27161)
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥ 3-292-9(27162)
उवाच रामो वैदेहीं परामर्शविशङ्कितः।
`लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः' ॥ 3-292-10(27163)
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तनमया कृतम्।
मामासाद्यपतिं भद्रे न त्वं राक्षसवेश्मनि।
जरां व्रजेथा इतिमे निहतोसौ निशाचरः ॥ 3-292-11(27164)
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्।
परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥ 3-292-12(27165)
सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि।
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥ 3-292-13(27166)
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः।
पपात देवी व्यथिता निकृत्ता कदली यथा ॥ 3-292-14(27167)
योप्यस्या हर्षसंभूतो मुखरागः पुराऽभवत्।
क्षणेन सपुनर्नष्टो निःश्वासादिव दर्पणे ॥ 3-292-15(27168)
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्।
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥ 3-292-16(27169)
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम् ॥ 3-292-17(27170)
शक्रश्चाग्निश्च वायुश्चयमो वरुण एव च।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥ 3-292-18(27171)
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्।
विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ 3-292-19(27172)
ततोऽन्तरिक्षं तत्सर्वंदेवगन्धर्वसंकुलम्।
शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥ 3-292-20(27173)
तत उत्थाय वैदेही तेषां मध्ययशस्विनी।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥ 3-292-21(27174)
राजपुत्र न ते कोपं करोमि विदिताहि मे।
गतिः स्त्रीणां नराणां च शृणु चदं वचो मम ॥ 3-292-22(27175)
अन्तश्चरतिभूतानां मातरिश्वा सदागतिः।
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ 3-292-23(27176)
अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च।
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥ 3-292-24(27177)
यथाऽहं त्वदृतेवीर नान्यंस्वप्नेऽप्यचिन्तयम्।
तथा मे देव निर्दिष्टस्त्वमेव हि पतिर्भव ॥ 3-292-25(27178)
ततोऽन्तरिक्षे वागारीत्सुभगा लोकसाक्षिणी।
पुण्यासंहर्षणी तेषां वानराणां महात्मनाम् ॥ 3-292-26(27179)
वायुरुवाच। 3-292-27x(2719)
बोभो राघव सत्यं वै वायुरस्मि सदागतिः।
अपापा मैथिली राजन्संगच्छसहभार्यया ॥ 3-292-27(27180)
अग्निरुवाच। 3-292-28x(2720)
अहमन्तःशरीरस्थो भूतानां रघुनन्दन।
सुसूक्ष्ममपि काकुत्स्थ मैथिलीनापराध्यति ॥ 3-292-28(27181)
वरुण उवाच। 3-292-29x(2721)
रसावै मत्प्रसूता हि भूतदेहेषु राघव।
अहंवै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥ 3-292-29(27182)
यम उवाच। 3-292-30x(2722)
`धर्मोऽहमस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम्।
शुभाशुभानां सीतेयमपापा प्रतिगृह्यताम्' ॥ 3-292-30(27183)
ब्र्हमोवाच। 3-292-31x(2723)
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम ॥ 3-292-31(27184)
शत्रुरेष त्वया वीर देवगनधर्वभोगिनाम्।
यक्षाणां दानवानां च महर्षीणां च पातितः ॥ 3-292-32(27185)
अवध्यः सर्वभूतानां मत्प्रसादात्पुराऽभवत्।
कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः ॥ 3-292-33(27186)
वधार्थमात्मनस्तेन हृता सीता दुरात्मना।
नलकूबरशापेन रक्षा चास्याः कृता मया ॥ 3-292-34(27187)
यदि ह्यकामामासेवेत्स्तरियमन्यामपि ध्रुवम्।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोभवत्पुरा ॥ 3-292-35(27188)
नात्रशङ्का त्वया कार्या प्रतीच्छेमां महामते।
कृतं त्वया महत्कार्यं देवानाममितप्रभ ॥ 3-292-36(27189)
दशरथ उवाच। 3-292-37x(2724)
प्रीतोस्मि वत्स भद्रं ते पिता दशरथोस्मि ते।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥ 3-292-37(27190)
राम उवाच। 3-292-38x(2725)
अभिवादयेत्वां राजेन्द्र यदि त्वं जनको मम।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥ 3-292-38(27191)
मार्कण्डेय उवाच। 3-292-39x(2726)
तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ।
गच्छायोध्यां प्रशाधि त्वंराम रक्तान्तलोचन।
संपूर्णानीहवर्षाणि चतुर्दश महाद्युते ॥ 3-292-39(27192)
ततो देवान्नमस्कृत्य मुहृद्भिरभिनन्दितः।
महेन्द्रइव पौलोम्या भार्यया स समेयिवान् ॥ 3-292-40(27193)
ततो वरं ददौ तस्मै ह्यविन्ध्याय परंतपः।
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥ 3-292-41(27194)
तमुवाच ततो ब्रह्मा देवैः शक्रषुरोगमैः।
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥ 3-292-42(27195)
वव्रेरामः स्थितिं धर्मे शत्रुभिश्चापराजयम्।
राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥ 3-292-43(27196)
ततस्ते ब्रह्मणा प्रोक्ते तथेतिवचने तदा।
समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥ 3-292-44(27197)
सीता चापि महाभागा वरं हनुमते ददौ।
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ 3-292-45(27198)
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा।
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥ 3-292-46(27199)
ततस्ते प्रेक्षमाणानां तेपामक्लिष्टकर्मणाम्।
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥ 3-292-47(27200)
दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः।
उवाच परमप्रीतसुहृन्मध्य इदं वचः ॥ 3-292-48(27201)
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्।
अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥ 3-292-49(27202)
सदेवासुरगनधर्वा यक्षराक्षसपन्नगाः।
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥ 3-292-50(27203)
इत्येवमुक्त्वाऽनुज्ञाप्यरामं शस्त्रभृतांवरम्।
संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥ 3-292-51(27204)
ततःसीतां पुरस्कृत्य रामः सौमित्रिणा सह।
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥ 3-292-52(27205)
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः।
संततार पुनस्तेन सेतुना मकरालयम् ॥ 3-292-53(27206)
पुष्पकेण विसानन खेचरेण विराजता।
कामगेन यथामुख्यैरमात्यैः संवृतो वसी ॥ 3-292-54(27207)
ततस्तीरे समुद्रस्यं यत्रशिश्य स पार्थिवः।
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥ 3-292-55(27208)
अथैनान्राघवः काले समानीयाभिपूज्य च।
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ॥ 3-292-56(27209)
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च।
सुग्रीवसहितो रामः किष्किन्दां पुनरागमत् ॥ 3-292-57(27210)
विभीषणेनानुगतः सुग्रीवसहितस्तदा।
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥ 3-292-58(27211)
किष्किन्धां तु समासाद्यरामः प्रहरतांवरः।
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥ 3-292-59(27212)
ततस्तैरेव सहितो रामः सौमित्रिणा सह।
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥ 3-292-60(27213)
अयोध्यां स समासाद्यपुरीं राष्ट्रपतिस्ततः।
भरताय हनूमन्तं दूतं प्रास्थापयद्द्रुतम् ॥ 3-292-61(27214)
लक्षयित्वेङ्गितं सर्वंप्रियं तस्मै निवेद्य वै।
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपाविशत् ॥ 3-292-62(27215)
सतत्रमलदिग्धाङ्गं भरतं चीरवाससम्।
`नन्दिग्रामगतंरामः सशत्रुघ्नं सराघवः'।
अग्रतःपादुके कृत्वा ददर्शासीनमासने ॥ 3-292-63(27216)
समेत्यभरतेनाथ शत्रुघ्नेन च वीर्यवान्।
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥ 3-292-64(27217)
ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा।
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥ 3-292-65(27218)
तस्मै तद्भरतो राज्यमागतायातिसत्कृतम्।
न्यासं निर्यातयामास युक्तः परमया मुदा ॥ 3-292-66(27219)
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिजितेऽहनि।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥ 3-292-67(27220)
सोभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्।
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥ 3-292-68(27221)
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ 3-292-69(27222)
पुष्पकं च विमानं तत्पूजयित्वा स राघवः।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥ 3-292-70(27223)
ततो देवर्षिसहितः सरितं गोमतीमनु।
शताश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥ 3-292-71(27224)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः ॥ 292 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-292-3 ब्रिदशालयः स्वर्गस्तत्स्थाः ॥ 3-292-55 यत्र शिश्ये पूर्वं समुद्रप्रार्थनार्थं शयनं कृतवान् ॥ 3-292-62 लक्षयित्वेङ्गितैः सर्वैरिति ध.पाटः ॥ 3-292-65 गुरुणा रामेण ॥ 3-292-67 वैष्णवे नक्षत्रेश्रवणे ॥ 3-292-71 जारूथ्यान् त्रिगुणदक्षिणानित्यर्जुनमिश्रः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|